पार्थिव पूजनं – शतनाम

धर्माचरण हो शास्त्रानुसार

शतनाम

॥ शिवरहस्योक्त शिव अष्टोत्तरशतनाम ॥

पार्वत्युवाच
शरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव ।
तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥
नारायण उवाच
अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् ।
शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥

ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवः परमात्मा देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥

॥ अथ ध्यानम् ॥

शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
धवलवपुषमिन्दोर्मण्डले संनिविष्टं
भुजगवलयहारं भस्मदिग्धाङ्गमीशम् ।
हरिणपरशुपाणिं चारुचन्द्रार्धमौलिं
हृदयकमलमध्ये सन्ततं चिन्मयामि ॥

श्रीविष्णुरुवाच
ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठोभक्तवत्सलः ॥२॥

भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।
पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥

॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

॥ स्कन्दपुराणोक्त शिव अष्टोत्तरशतनाम ॥

देवा ऊचुः
ॐ जय शम्भो विभो रुद्र स्वयम्भो जय शङ्कर ।
जयेश्वर जयेशान जय सर्वज्ञ कामद ॥१॥
नीलकण्ठ जय श्रीद श्रीकण्ठ जय धूर्जटे ।
अष्टमूर्तेऽनन्तमूर्ते महामूर्ते जयानघ ॥२॥
जय पापहरानङ्गनिःसङ्गाभङ्गनाशन ।
जय त्वं त्रिदशाधार त्रिलोकेश त्रिलोचन ॥३॥
जय त्वं त्रिपथाधार त्रिमार्ग त्रिभिरूर्जित ।
त्रिपुरारे त्रिधामूर्ते जयैकत्रिजटात्मक ॥४॥
शशिशेखर शूलेश पशुपाल शिवाप्रिय ।
शिवात्मक शिव श्रीद सुहृच्छ्रीशतनो जय ॥५॥
सर्व सर्वेश भूतेश गिरिश त्वं गिरीश्वर ।
जयोग्ररूप मीमेश भव भर्ग जय प्रभो ॥६॥

जय दक्षाध्वरध्वंसिन्नन्धकध्वंसकारक ।
रुण्डमालिन् कपालिंस्थं भुजङ्गाजिनभूषण ॥७॥

दिगम्बर दिशां नाथ व्योमकेश चिताम्पते ।
जयाधार निराधार भस्माधार धराधर ॥८॥
देवदेव महादेव देवतेशादिदैवत ।
वह्निवीर्य जय स्थाणो जयायोनिजसम्भव ॥९॥
भव शर्व महाकाल भस्माङ्ग सर्पभूषण ।
त्र्यम्बक स्थपते वाचाम्पते भो जगताम्पते ॥१०॥
शिपिविष्ट विरूपाक्ष जय लिङ्ग वृषध्वज ।
नीललोहित पिङ्गाक्ष जय खट्वाङ्गमण्डन ॥११॥
कृत्तिवास अहिर्बुध्न्य मृडानीश जटाम्बुभृत् ।
जगद्भ्रातर्जगन्मातर्जगत्तात जगद्गुरो ॥१२॥
पञ्चवक्त्र महावक्त्र कालवक्त्र गजास्यभृत् ।
दशबाहो महाबाहो महावीर्य महाबल ॥१३॥
अघोरघोरवक्त्र त्वं सद्योजात उमापते ।
सदानन्द महानन्द नन्दमूर्ते जयेश्वर ॥१४॥

एवमष्टोत्तरशतं नाम्नां देवकृतं तु ये ।
शम्भोर्भक्त्या स्मरन्तीह श‍ृण्वन्ति च पठन्ति च ॥१५॥

न तापास्त्रिविधास्तेषां न शोको न रुजादयः ।
ग्रहगोचरपीडा च तेषां क्वापि न विद्यते ॥१६॥
श्रीः प्रज्ञाऽऽरोग्यमायुष्यं सौभाग्यं भाग्यमुन्नतिम् ।
विद्या धर्मे मतिः शम्भोर्भक्तिस्तेषां न संशयः ॥१७॥

॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

प्रस्तुति : संपूर्ण कर्मकांड विधि