पार्थिव पूजनं – सहस्रनाम

धर्माचरण हो शास्त्रानुसार

रुद्र सहस्रनाम

ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ॥
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ।

जटी दण्डी शिखण्डी च सर्वगः सर्वभावनः ॥
हरिश्च हरिणाक्षश्च सर्वभूतहरः स्मृतः ।

प्रवृत्तिश्च निवृत्तिश्च शान्तात्मा शाश्वतो ध्रुवः ॥
श्मशानवासी भगवान्खचरो गोचरोर्दनः ।
अभिवाद्यो महाकर्मा तपस्वी भूतधारणः ॥
उन्मत्तवेशः प्रच्छन्नः सर्वलोकप्रजापतिः ।
महारूपो महाकायः सर्वरूपो महायशाः ॥
महात्मा सर्वभूतश्च विरूपो वामनो नरः ।
लोकपालोऽन्तर्हितात्मा प्रसादोऽभयदो विभुः ॥
पवित्रश्च महांश्चैव नियतो नियताश्रयः ।
स्वयम्भूः सर्वकर्मा च आदिरादिकरो निधिः ॥
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ।
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्मतः ॥
राजा राज्योदयः कर्ता मृगबाणार्पणो घनः ।
महातपा दीर्घतपा अदृश्यो धनसाधकः ॥
संवत्सरः कृतो मन्त्रः प्राणायामः परन्तपः ।
योगी योगो महाबीजो महारेता महाबलः ॥
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ।
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ॥
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलाग्रणीः ।
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ॥
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ।
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥
शरी शतघ्नी खड्गी च पट्टिशी चायुधी महान् ।
अजश्च मृगरूपश्च तेजस्तेजस्करो विधिः ॥
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ।
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥
शृगालरूपः सर्वार्थो मुण्डः सर्वशुभङ्करः ।
सिंहशार्दूलरूपश्च गन्धकारी कपर्द्यपि ॥
ऊर्ध्वरेतोर्ध्वलिङ्गी च ऊर्ध्वशायी नभस्तलः ।
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ॥
अहोरात्रञ्च नक्तञ्च तिग्ममन्युः सुवर्चसः ।
गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥
सिंहशार्दुलरूपाणामार्द्रचर्माम्बरन्धरः ।
कालयोगी महानादः सर्वावासश्चतुष्पथः ॥
निशाचरः प्रेतचारी सर्वदर्शी महेश्वरः ।
बहुभूतो बहुधनः सर्वसारोऽमृतेश्वरः ॥
नृत्यप्रियो नित्यनृत्यो नर्तनः सर्वसाधकः ।
सकार्मुको महाबाहुर्महाघोरो महातपाः ॥
महाशरो महापाशो नित्यो गिरिचरो मतः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः ।
दक्षहा परिचारी च प्रहसो मध्यमस्तथा ॥
तेजोऽपहारी बलवान्विदितोऽभ्युदितो बहुः ।
गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः ॥
गम्भीररोषो गम्भीरो गम्भीरबलवाहनः ।
न्यग्रोधरूपो न्यग्रोधो विश्वकर्मा च विश्वभुक् ॥
तीक्ष्णोपायश्च हर्यश्वः सहायः कर्मकालवित् ।
विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः ॥
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।
उग्रतेजा महातेजा जयो विजयकालवित् ॥
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ।
खड्गीशङ्खीजटीज्वाली खचरोद्युचरोबली ॥
वैणवीपणवीकालः कालकण्ठः कटङ्कटः ।
नक्षत्रविग्रहो भावो निभावः सर्वतोमुखः ॥
विमोचनस्तु शरणो हिरण्यकवचोद्भवः ।
मेखलाकृतिरूपश्च जलाचारः स्तुतस्तथा ॥
वीणी च पणवी ताली नाली कलिकटुस्तथा ।
सर्वतूर्यनिनादी च सर्वव्याप्यपरिग्रहः ॥
व्यालरूपी बिलावासी गुहावासी तरङ्गवित् ।
वृक्षः श्रीमालकर्मा च सर्वबन्धविमोचनः ॥
बन्धनस्तु सुरेन्द्राणां युधि शत्रुविनाशनः ।
सखा प्रवासो दुर्वापः सर्वसाधुनिषेवितः ॥
प्रस्कन्दोऽप्यविभावश्च तुल्यो यज्ञविभागवित् ।
सर्ववासः सर्वचारी दुर्वासा वासवो मतः ॥
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ।
आकाशो निर्विरूपश्च विवासा उरगः खगः ॥
भिक्षुश्च भिक्षुरूपी च रौद्ररूपः सुरूपवान् ।
वसुरेताः सुवर्चस्वी वसुवेगो महाबलः ॥
मनोवेगो निशाचारः सर्वलोकशुभप्रदः ।
सर्वावासी त्रयीवासी उपदेशकरो धरः ॥
मुनिरात्मा मुनिर्लोकः सभाग्यश्च सहस्रभुक् ।
पक्षी च पक्षरूपश्च अतिदीप्तो निशाकरः ॥
समीरो दमनाकारो ह्यर्थो ह्यर्थकरोऽवशः ।
वासुदेवश्च देवश्च वामदेवश्च वामनः ॥
सिद्धियोगापहारी च सिद्धः सर्वार्थसाधकः ।
अक्षुण्णः क्षुण्णरूपश्च वृषणो मृदुरव्ययः ॥
महासेनो विशाखश्च षष्टिभागो गवां पतिः ।
चक्रहस्तस्तु विष्टम्भी मूलस्तम्भन एव च ॥
ऋतुरृतुकरस्तालो मधुर्मधुकरो वरः ।
वानस्पत्यो वाजसनो नित्यमाश्रमपूजितः ॥
ब्रह्मचारी लोकचारि सर्वचारि सुचारवित् ।
ईशान ईश्वरः कालो निशाचारी ह्यनेकदृक् ॥
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरः ।
नन्दीश्वरः सुनन्दी च नन्दनो विषमर्दनः ॥
भगहारी नियन्ता च कालो लोकपितामहः ।
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥
लिङ्गाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः ।
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥
इतिहासश्च कल्पश्च दमनो जगदीश्वरः ।
दम्भो दम्भकरो दाता वंशो वंशकरः कलिः ॥
लोककर्ता पशुपतिर्महाकर्ता ह्यधोक्षजः ।
अक्षरं परमं ब्रह्म बलवाञ्छुक्र एव च ॥
नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः ।
प्रासादस्तु बलो दर्पो दर्पणो हव्यमिन्द्रजित् ॥
वेदकारः सूत्रकारो विद्वांश्च परमर्दनः ।
महामेघनिवासी च महाघोरो वशीकरः ॥
अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः ।
धिषणः शङ्करो नित्यो वर्चस्वी धूम्रलोचनः ॥
नीलस्तथाङ्गलुप्तश्च शोभनो नरविग्रहः ।
स्वस्ति स्वस्तिस्वभावश्च भोगी भोगकरो लघुः ॥
उत्सङ्गश्च महाङ्गश्च महागर्भः प्रतापवान् ।
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्ववर्णिकः ॥
महापादो महाहस्तो महाकायो महायशाः ।
महामूर्धा महामात्रो महामित्रो नगालयः ॥
महास्कन्धो महाकर्णो महोष्ठश्च महाहनुः ।
महानासो महाकण्ठो महाग्रीवः श्मशानवान् ॥
महाबलो महातेजा ह्यन्तरात्मा मृगालयः ।
लम्बितोष्ठश्च निष्ठश्च महामायः पयोनिधिः ॥
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानखो महारोमा महाकेशो महाजटः ॥
असपत्नः प्रसादश्च प्रत्ययो गीतसाधकः ।
प्रस्वेदनो स्वहेनश्च आदिकश्च महामुनिः ॥
वृषको वृषकेतुश्च अनलो वायुवाहनः ।
मण्डली मेरुवासश्च देववाहन एव च ॥
अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः ।
यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च ॥
अमोघार्थप्रसादश्च अन्तर्भाव्यः सुदर्शनः ।
उपहारः प्रियः सर्वः कनकः काञ्चनस्थितः ॥
नाभिर्नन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः ।
सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः ॥
नगो नीलः कविः कालो मकरः कालपूजितः ।
सगणो गणकारश्च भूतभावनसारथिः ॥
भस्मशायी भस्मगोप्ता भस्मभूततनुर्गणः ।
आगमश्च विलोपश्च महात्मा सर्वपूजितः ॥
शुक्लः स्त्रीरूपसम्पन्नः शुचिर्भूतनिषेवितः ।
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट् ॥
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चितः ।
कपिलः कलशः स्थूल आयुधश्चैव रोमशः ॥
गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्यविज्ञेयः सुशारदः ।
परश्वधायुधो देवो ह्यर्थकारी सुबान्धवः ॥
तुम्बवीणो महाकोप ऊर्ध्वरेता जलेशयः ।
उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः ॥
सर्वाङ्गरूपी मायावी सुहृदो ह्यनिलो बलः ।
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥
राक्षसघ्नोऽथ कामारिर्महादंष्ट्रो महायुधः ।
लम्बितो लम्बितोष्ठश्च लम्बहस्तो वरप्रदः ॥
बाहुस्त्वनिन्दितः सर्वः शङ्करोऽथाप्यकोपनः ।
अमरेशो महाघोरो विश्वदेवः सुरारिहा ॥
अहिर्बुध्न्यो निरृतिश्च चेकितानो हली तथा ।
अजैकपाच्च कापाली शं कुमारो महागिरिः ॥
धन्वन्तरिर्धूमकेतुः सूर्यो वैश्रवणस्तथा ।
धाता विष्णुश्च शक्रश्च मित्रस्त्वष्टा धरो ध्रुवः ॥
प्रभासः पर्वतो वायुरर्यमा सविता रविः ।
धृतिश्चैव विधाता च मान्धाता भूतभावनः ॥
नीरस्तीर्थश्च भीमश्च सर्वकर्मा गुणोद्वहः ।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो नभोऽनघः ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यकृत्तमः ।
क्रूरकर्ता क्रूरवासी तनुरात्मा महौषधः ॥
सर्वाशयः सर्वचारी प्राणेशः प्राणिनां पतिः ।
देवदेवः सुखोत्सिक्तः सदसत्सर्वरत्नवित् ॥
कैलासस्थो गुहावासी हिमवद्गिरिसंश्रयः ।
कुलहारी कुलाकर्ता बहुवित्तो बहुप्रजः ॥
प्राणेशो बन्धकी वृक्षो नकुलश्चाद्रिकस्तथा ।
ह्रस्वग्रीवो महाजानुरलोलश्च महौषधिः ॥
सिद्धान्तकारी सिद्धार्थश्छन्दो व्याकरणोद्भवः ।
सिंहनादः सिंहदंष्ट्रः सिंहास्यः सिंहवाहनः ॥
प्रभावात्मा जगत्कालः कालः कम्पी तरुस्तनुः ।
सारङ्गो भूतचक्राङ्कः केतुमाली सुवेधकः ॥
भूतालयो भूतपतिरहोरात्रो मलोऽमलः ।
वसुभृत्सर्वभूतात्मा निश्चलः सुविदुर्बुधः ॥
असुहृत्सर्वभूतानां निश्चलश्चलविद्बुधः ।
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥
धृतिमान्मतिमांस्त्र्यक्षः सुकृतस्तु युधां पतिः ।
गोपालो गोपतिर्ग्रामो गोचर्मवसनो हरः ॥
हिरण्यबाहुश्च तथा गुहावासः प्रवेशनः ।
महामना महाकामो चित्तकामो जितेन्द्रियः ॥
गान्धारश्च सुरापश्च तापकर्मरतो हितः ।
महाभूतो भूतवृतो ह्यप्सरोगणसेवितः ॥
महाकेतुर्धराधाता नैकतानरतः स्वरः ।
अवेदनीय आवेद्यः सर्वगश्च सुखावहः ॥
तारणश्चरणो धाता परिधा परिपूजितः ।
संयोगी वर्धनो वृद्धो गणिकोऽथ गणाधिपः ॥
नित्यो धाता सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च सुदेवोऽपि सुपर्वणः ॥
आषाढश्च सुषाढश्च स्कन्धदो हरितो हरः ।
वपुरावर्तमानोऽन्यो वपुः श्रेष्ठो महावपुः ॥
शिरो विमर्शनः सर्वलक्ष्यलक्षणभूषितः ।
अक्षयो रथगीतश्च सर्वभोगी महाबलः ॥
साम्नायोऽथ महाम्नायस्तीर्थदेवो महायशाः ।
निर्जीवो जीवनो मन्त्रः सुभगो बहुकर्कशः ॥
रत्नभूतोऽथ रत्नाङ्गः महार्णवनिपातवित् ।
मूलं विशालो ह्यमृतं व्यक्ताव्यक्तस्तपोनिधिः ॥
आरोहणोऽधिरोहश्च शीलधारी महातपाः ।
महाकण्ठो महायोगी युगो युगकरो हरिः ॥
युगरूपो महारूपो वहनो गहनो नगः ।
न्यायो निर्वापणो पादः पण्डितो ह्यचलोपमः ॥
बहुमालो महामालः शिपिविष्टः सुलोचनः ।
विस्तारो लवणः कूपः कुसुमाङ्गो फलोदयः ॥
ऋषभो वृषभो भङ्गो माणिबिम्बजटाधरः ।
इन्दुर्विसर्गः सुमुखः शूरः सर्वायुधः सहः ॥
निवेदनः सुधाजातः स्वर्गद्वारो महाधनुः ।
गिरावासो विसर्गश्च सर्वलक्षणलक्षवित् ॥
गन्धमाली च भगवाननन्तः सर्वलक्षणः ।
सन्तानो बहुलो बाहुः सकलः सर्वपावनः ॥
करस्थाली कपाली च ऊर्ध्वसंहननो युवा ।
यन्त्रतन्त्रसुविख्यातो लोकः सर्वाश्रयो मृदुः ॥
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ।
वार्यक्षः ककुभो वज्री दीप्ततेजाः सहस्रपात् ॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नः शतपाशधृक् ॥
कला काष्ठा लवो मात्रा मुहूर्तोहः क्षपा क्षणः ।
विश्वक्षेत्रप्रदो बीजं लिङ्गमाद्यस्तु निर्मुखः ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं मोक्षद्वारं प्रजाद्वारं त्रिविष्टपः ॥
निर्वाणं हृदयश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥
देवासुरेश्वरो विष्णुर्देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्मा स्वयम्भवः ॥
उद्गतस्त्रिक्रमो वैद्यो वरदोऽवरजोऽम्बरः ।
इज्यो हस्ती तथा व्याघ्रो देवसिंहो महर्षभः ॥
विबुधाग्र्यः सुरश्रेष्ठः स्वर्गदेवस्तथोत्तमः ।
संयुक्तः शोभनो वक्ता आशानां प्रभवोव्ययः ॥
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।
श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः ॥
अभिरामः सुशरणो निरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥
स्थावराणां पतिश्चैव नियतेन्द्रियवर्तनः ।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यः शुचिव्रतः ॥
व्रताधिपः परं ब्रह्म मुक्तानां परमा गातिः ।
विमुक्तो मुक्तकेशश्च श्रीमाञ्छ्रीवर्धनो जगत् ॥
यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ।
भक्तिमेवं पुरुस्कृत्य मया यज्ञपतिर्विभुः ॥
ततो ह्यनुज्ञां प्राप्यैवं स्तुतो भक्तिमतां गतिः ।
तस्माल्लब्ध्वा स्तवं शम्भोर्नृपस्त्रैलोक्यविश्रुतः ॥
अश्वमेधसहस्रस्य फलं प्राप्य महायशाः ।
गणाधिपत्यं संप्राप्तस्तण्डिनस्तेजसा प्रभोः ॥
यः पठेच्छ्रुणुयाद्वापि श्रावयेद्ब्राह्मणानपि ।
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजाः ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयश्च गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥
मातृहा पितृहा चैव वीरहा भ्रूणहा तथा ।
संवत्सरं क्रमाज्जप्त्वा त्रिसन्ध्यं शङ्कराश्रमे ॥
दिवमिष्ट्वा त्रिसन्ध्यं च सर्वपापैः प्रमुच्यते ॥

॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे रुद्रसहस्रनामकथनं नाम पञ्चषष्टित्तमोऽध्यायः ॥

प्रस्तुति : संपूर्ण कर्मकांड विधि