पार्थिव पूजनं – पार्थिवार्चा

धर्माचरण हो शास्त्रानुसार

प्रस्तुति : संपूर्ण कर्मकांड विधि

नमः शिवाय मंत्रेणार्चनद्रव्यं च प्रोक्षयेत् ।
भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥

आपोऽस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।
नमस्ते रुद्र मंत्रेण स्फाटिकाबंधमुच्यते ॥

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।
नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ॥

नीलग्रीवाय मंत्रेण नमः पूर्वेण भक्तिमान् ।
चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ॥

भक्तितस्तत एतत्ते रुद्रायेति च मंत्रतः ।
आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥

मानो महान्तमिति च मंत्रेणावाहनं चरेत् ।
या ते रुद्रेण मंत्रेण संचरेदुपवेशनम् ॥

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।
अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥

मनुनासौ जीव इति देवतान्यासमाचरेत् ।
असौ योऽवसर्पतीति चाचरेदपसर्पणम् ॥

नमोऽस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।
अर्घ्यं च रुद्र गायत्र्याऽचमनं त्र्यंबकेण च ॥

पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।
दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् ॥

घृतस्नाने खलु घृतं घृतपावेति मंत्रतः ।
मधुवाता मधुनक्तं मधुमान्न इति त्र्यृचा ॥

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।
अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ॥

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।
नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।
नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।
नमः पर्ण्याय इति वा बिल्वपत्रसमर्पणम् ॥

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।
मनुना त्र्यम्बकमिति पुनराचमनं स्मृतम् ॥

इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ।
नमो व्रज्यायेति ऋचा सकलं शंभवेऽर्पयेत् ॥

मानो महान्तमिति च मानस्तोके इति ततः ।
मंत्रद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।
देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ॥

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।
पुष्पाञ्जलिं चरेद्भक्त्या इमा रुद्राय च त्र्यृचा ॥

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।
मानस्तोकेति मंत्रेण साष्टाङ्गं प्रणमेत्सुधीः ॥

एष ते इति मंत्रेण शिवमुद्रां प्रदर्शयेत् ।
यतोयत इत्यभयां ज्ञानाख्यां त्र्यंबकेण च ॥

नमः सेनेति मंत्रेण महामुद्रां प्रदर्शयेत् ।
दर्शयेद्धेनुमुद्रां च नमो गोभ्य ऋचानया ॥

पंचमुद्राः प्रदर्श्याथ शिवमंत्रजपं चरेत् ।
शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥

ततः पंचाङ्गपाठं च कुर्य्याद्वेदविचक्षणः ।
देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।
समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥

ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।
वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥

अघोरेण च मंत्रेण लिङ्गनिर्माणमाचरेत् ।
तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि ॥

संयोजयेद्वेदिकायामीशानमनुना हरम् ।
अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ॥

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥

भवाय भवनाशाय महादेवाय धीमहि ।
उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥

अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।
सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।
प्रोच्यतेऽन्यविधिः सम्यक्साधारणतया द्विजः ॥

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।
शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।
कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ॥

कृत्वा न्यासविधिं सम्यक् षडङ्गंकरयोस्तथा ।
षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् ॥

कैलासपीठासनमध्यसंस्थं
भक्तैः सनंदादिभिरर्च्यमानम् ।
भक्तार्तिदावानलमप्रमेयं
ध्यायेदुमालिंगितविश्वभूषणम् ॥

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समंतात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।
जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ॥

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।
नानाभिधाभिर्विप्रेन्द्राः पठेद्वै शतरुद्रियम् ॥

ततः साक्षतपुष्पाणि गृहीत्वाञ्जलिना मुदा ।
प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ॥

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ॥

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शंकर ॥

अहं पापी महानद्य पावनश्च भवान्महान् ।
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।
न ज्ञातोऽसि महादेव कुतोऽहं त्वं महाशिव ॥

यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर ।
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।
प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥