पार्थिव पूजनं – माहात्म्य
प्रस्तुति : संपूर्ण कर्मकांड विधि
पार्थिव पूजनं अनुप्रयोग


सूत उवाच
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतोऽखिलाः ।
शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ॥
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ।
तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।
संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ॥
देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ।
अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ॥
कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ।
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ।
अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ।
एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ।
तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥
यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥
प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।
तुष्टिदं पुष्टिदं श्रीदं कार्यं साधकसत्तमैः ॥
यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ।
पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥
यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ।
इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते ॥
त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ।
दशैकादशकंयावत्तस्य पुण्यफलं शृणु ॥
अनेनैव स्वदेहेन रुद्र लोके महीयते ।
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥
जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ।
तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥
शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ।
यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ।
सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥
निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ।
शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ।
स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥
यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ।
पंचसूत्रविधानां च पार्थिवेन विचारयेत् ॥
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।
द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ।
पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥
अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ।
खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥
वेदिका तु महाविद्या लिंगं देवो महेश्वरः ।
अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ॥
द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ।
अखंडं जंगमं प्रोक्तं शैवसिद्धान्तवेदिभिः ॥
द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ।
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥
अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ।
येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥
तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ।
द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥
अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ।
द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥
अखंडे स्थावरे पूजा न कामफलदायिनी ।
प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥
॥ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्य साधन खंडे पार्थिव शिवलिंग पूजनमाहात्म्य वर्णनं नामैकोनविंशोऽध्यायः ॥
