पार्थिव पूजनं – क्षमा प्रार्थना

धर्माचरण हो शास्त्रानुसार

क्षमा प्रार्थना

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।

कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।

कृतं तदस्तु सफलं कृपया तव शंकर ॥

अहं पापी महानद्य पावनश्च भवान्महान् ।

इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।

न ज्ञातोऽसि महादेव कुतोऽहं त्वं महाशिव ॥

यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर ।

रक्षणीयस्त्वयाऽहं वै प्रसीद परमेश्वर ॥

क्षमापण

ॐ अंगहीनं क्रियाहीनं विधिहीनं महेश्वर ।

पूजितोऽसि महादेव तत् क्षमस्व भ्रमात्कृतम् ॥
यद्यप्युदाहृतैः पुष्पैरपास्तैर्भावदूषितैः ।

केशकीटापविद्धैश्च पूजितोऽसि मया प्रभो ॥
अन्यत्रासक्तचित्तेन क्रियाहीनेन वा प्रभो ।

मनोवाक्कायदुष्टेन पूजितोऽसि त्रिलोचन ॥
यच्चोपहतपात्रेण कृतमर्घ्यादिकं मया ।

तामसेन च भावेन तत्क्षमस्व मम प्रभो ॥
मन्त्रेणाक्षरहीनेन पुष्पेण विफलेन च ।

पूजितोऽसि महादेव तत्सर्वं क्षम्यतां मम ॥
व्रतं सम्पूर्णतां यातु फलं चाक्षयमश्नुते ।

अज्ञानयोगादुपचारकर्मं

यत्पूर्वमस्माभिरनुष्ठितं ते ।
तदैव सोद्वासनकं दयालो

पितेव पुत्रान्प्रतनो जुषस्व ॥
अयं दानकालस्त्वहं दानपात्रं

भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमन्तः स्थिरां देहि मह्यं

कृपाशील शम्भो कृतार्थोऽस्मि यस्मात् ॥
ॐ नमोंकाररूपाय नमोऽक्षरवपुर्धृते ।

नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने ॥

अलिंगलिंगरूपाय रूपातीताय ते नमः ।

त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥
त्वं भ्राता त्वं सुहृन्मित्रं त्वं प्रियः प्रियरूपधृक् ।

त्वं गुरुस्त्वं गतिः साक्षात्त्वं पिता त्वं पितामहः ॥

नमस्ते भगवन् रुद्र भास्करामिततेजसे ।

नमो भवाय रुद्राय रसायाम्बुमयाय च ॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।

पशूनांपतये तुभ्यं पावकामिततेजसे ॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।

महादेवाय सोमाय अमृताय नमोऽस्तु ते ॥
उग्राय यजमानाय नमस्ते कर्मयोगिने ।

पार्थिवस्य च लिङ्गस्य यन्मया पूजनं कृतम् ॥
तेन मे भगवान् रुद्रो वांछितार्थं प्रयच्छतु ॥

करचरणकृतं वा कायजं कर्मजं वा ।

श्रवण नयनजं वा मानसं वापराधम् ॥
विहितमवहितं वा सर्वमेतत् क्षमस्व ।

जय जय करुणाब्धे श्री महादेव शम्भो ॥

प्रस्तुति : संपूर्ण कर्मकांड विधि