पार्थिव पूजनं – कवच
धर्माचरण हो शास्त्रानुसार
कवच
॥ शिवरहस्योक्त दधीचिकृत शिव कवच ॥
दधीचिरुवाच
कवचं देवदेवस्य वक्ष्येशृणु नराधिप ।
येनाऽऽवृतो महादुःखैर्मुक्तो मुक्ति च विन्दति ॥
ध्येयः श्रीमन्महादेवः साम्बः संसारमोचकः ।
पवित्रहृदयैः शुद्धैर्भस्मरुद्राक्षभूषणैः ॥
श्रीविश्वेश्वर मुमासहायमनघं विश्वात्मकं चिद्घनम् ।
सत्यं ज्ञानमनन्तमक्षरमजं निर्लिप्तमेकं प्रभुम् ॥
ओङ्कारात्मकमक्षरं परतरं ब्रह्मादिभिर्भावितम् ।
सानन्दं हृदि भावयेद्भवभयध्वान्तान्तमानन्ददम् ॥
एवं ध्यात्वा महादेवं सच्चिदानन्दलक्षणम् ।
कवचेनावृतो भूत्वा मृत्युपाशैर्विमुच्यते ॥
यद्ब्रह्मरन्ध्रं मम संविदाभं
तद्ब्रह्मरन्ध्रं भगवानुमेशः ।
पायात्स संस्थानमनन्तलक्षणं
निवार्य सर्वाघकुलं निरन्तरम् ॥
तत्पार्श्वर्घाग्निगमान्त चारी
रुद्रः शिखायां तु शिवावतंसः ।
शिरः शिखां पातु ममेन्दुचूडः
भालं ममाव्याज्ज्वलनोरुभालः ॥
वामं कपोलं मम पातु शम्भुः
कपोलमीशोऽवतु दक्षिणं मे ।
पायाद्गिरीशो मम वामनेत्रं
त्रिलोचनो दक्षिणमक्षि पायात् ॥
भ्रूयुग्ममव्याद्वृषभध्वजो मे
भ्रूमध्यमव्यान्मखनाशदक्षः ।
नासापुटं पातु ममान्तकान्तको
नासान्तरं पातु पिनाकपाणिः ॥
मुखं ममाव्यात्स च पञ्चवक्त्रः
पायान्ममौष्ठौ गजकृत्तिवासाः ।
दन्तान्ममाव्यात्प्रभुरिन्द्र दन्तो
जिह्वां ममाव्यान्निगमान्तजिह्वः ॥
श्रीनीलकण्ठोऽवतु कण्ठदेशं
पायान्महेशोऽवतु कण्ठपार्श्वम् ।
स्कन्धौ ममाव्यान्मदनान्तकारी
वक्षः स्थलं पातु ममाम्बिकेशः ॥
विश्वम्भरोऽव्यादुदरं ममेदं
सर्वेश्वरो रक्षतु रोमकूपान् ।
आन्त्राणि पायादुरुशक्तिरव्या-
दस्थीनि विश्वस्थितिनाशहेतुः ॥
त्र्यम्बको दक्षिणबाहुमव्या-
द्वामं ममाव्याद्भुजगावनद्धः ।
प्रकोष्ठमव्याद्गिरिराजचापो
हस्तौ ममाव्याद्वरशूलहस्तः ॥
विशाखनाथोऽवतु हस्तशाखा-
न्नखान्ममाव्यान्नरसिह्म हारी ।
पृष्ठं ममाव्यात्रिपुरारि रव्या-
त्कटिद्वयं मे गिरिजासहायः ॥
कट्यन्तरालं मम पातु शम्भु-
रूरुद्वयं मे मृगशाबपाणिः ।
जानुद्वयं पातु जनार्दनेशो
गुल्फद्वयं पातु विराट्स्वरूपः ॥
पादौ ममाव्यादमरैकवन्द्यः
पायाद्धरः पादतलद्वयं मे ।
पादाङ्गुलीः पातु समस्तरूपो
सर्वां तनुं पातु महेश्वरो मे ॥
प्राच्यां सदा रक्षतु नीतुरुद्रो
कर्पूर गौरोऽवतु दक्षिणस्याम् ।
पातु प्रतीच्यां भगनेत्रहारी
पायादुदीच्यां जगदेकनाथः ॥
ममोर्ध्वमव्यादुडुराजकान्ति-
रधो ममाव्यादुरगेन्द्र भूषः ।
दिगन्तरालेषु समस्तनाथः
पायाद्वृषीधीश्वरकेतुलक्ष्यः ॥
नदीषु मां रक्षतु विश्वनाथः
कूपेषु मां रक्षतु विश्वमूर्तिः ।
पायात्समुद्रेषु जलाधिराजः
सरित्समुद्रादिविधानदक्षः ॥
वापीषु पायादतिबाह्यवर्ती
दवानलात्पातु दरीशहारः ।
गर्तेषु पायात्सुरगर्वहारी
वृक्षेषु पायाद्वृषभध्वजोमाम् ॥
पायाद्गजेभ्यो गजदर्पहारी
पायादहिभ्योऽपि हि वीरभद्रः ।
पायात्समेभ्यो विषसर्पहारी
पायात्त्रिमूर्तिविषवृश्चिकेभ्यः ॥
भूताधिपः पातु विरोधिभीतेः
रक्षः पिशाचिदिभयात्कपाली ।
मृत्युञ्जयो रक्षतु मृत्युभीतेः
कालाग्निरुद्रोऽवतु कालभीतेः ॥
पापारिरव्याद्बहुपातकेभ्यः
पायाद्ग्रहेभ्यः कमलासनार्च्यः ।
श्री विष्णुनेत्रार्चित पादपद्मः
पातु प्रभातेष्वखिलेषु शम्भुः ॥
मध्यन्दिनेष्वेव मृडोऽनिशं मां
सायाह्नकालेऽप्यमराधिनाथः ।
महेश्वरो रक्षतु मध्यरात्रे
पायादुषस्यान्धकनाशहेतुः ॥
सर्षेषुकालेष्वपि पातु शम्भु-
रुमाङ्गसंश्लिष्टमनोक्षदेहः ।
मार्गे मृगव्याधवपुर्धरोऽव्याद्
युद्धेषु पायादसुरौघदारी ॥
सर्वत्र सर्वार्तिहरो हरोव्या-
त्सर्वेप्सितार्थप्रदरूपधारी ।
रक्षाविहिनस्थलमस्ति यन्मे
तत्रावतु श्रीवरवीरभद्रः ॥
कृत्वैवं कवचं पूर्वं स्तोत्रमेतत्पठेन्नरः ।
स्तोत्रं चैतन्महेशेन तस्मा आख्यातमादरात् ॥
॥ इति शिवरहस्यान्तर्गते ऋषिदधीचिप्रोक्तं शिवकवचं सम्पूर्णम् ॥
॥ ब्रह्माण्डविजयी शिव कवच ॥
नारद उवाच
शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् ।
नारायण महाभाग श्रोतुं कौतूहलं मम ॥
श्रीनारायण उवाच
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।
ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥
पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते ।
दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।
अस्त्रेशस्त्रेजलेवह्नौ सिद्धिश्चेन्नास्ति संशयः ॥
यद्धृत्वा पठनात् बाणः शिवत्वं प्रापलीलया ।
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥
वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद् धारणाद्यतः ।
त्रैलोक्य विजयी राजा हिरण्यकशिपुः स्वयम् ॥
हिरण्याक्षश्च विजयी चाऽभवद् धारणाद्धि सः ।
यद्धृत्वा पठनात् सिद्धो दुर्वासा विश्व पूजितः ॥
जैगीषव्यो महायोगी पठनाद् धारणाद्यतः ।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥
अगस्त्यश्च पुलस्त्यश्चाऽभवत् विश्वपूजितः ॥
॥ श्रीशिवकवचम् ॥
ॐनमः शिवायेति च मस्तकं मे सदाऽवतु।
ॐनमःशिवायेति च स्वाहा भालं सदाऽवतु॥
ॐह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु।
ॐह्रींक्लींहूंशिवायेति नमो मे पातुनासिकाम्॥
ॐनमःशिवायशान्ताय स्वाहा कण्ठंसदाऽवतु।
ॐ ह्रीं श्रीं हूं संसार कर्त्रे स्वाहा कर्णौ सदावतु ॥
ॐह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदावतु।
ॐह्रीं महेशाय स्वाहा चाऽधरं पातु मे सदा॥
ॐह्रींश्रींक्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु।
ॐह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु॥
ॐह्रींश्रींक्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु।
ॐह्रींऐंश्रींश्रीं ईश्वराय स्वाहा पृष्ठं सदाऽवतु॥
ॐह्रींक्लीं मृतुञ्जयाय स्वाहा भ्रुवौ सदाऽवतु।
ॐह्रींश्रींक्लीं ईशानाय स्वाहा पार्श्वंसदाऽवतु॥
ॐ ह्रीं ईश्वराय स्वाहा चोदरं पातु मे सदा।
ॐश्रींह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु॥
ॐह्रींश्रींक्लीं ईश्वराय स्वाहा पातु करौ मम।
ॐमहेश्वराय रुद्राय नितम्बं पातु मे सदा ॥
ॐह्रींश्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु।
ॐसर्वेश्वरायशर्वाय स्वाहा पादौ सदाऽवतु ॥
प्राच्यां मां पातु भूतेशः आग्नेय्यां पातु शङ्करः ।
दक्षिणे पातु मां रुद्रो नैरृत्यां स्थाणुरेव च ॥११॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।
उत्तरे गिरिशः पातु चैशान्यां ईश्वरः स्वयम्॥
ऊर्ध्वे मृडः सदापातु चाऽधो मृत्युञ्जयःस्वयम्।
जलेस्थले चाऽन्तरिक्षे स्वप्ने जागरणे सदा ॥
पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः॥
॥ फलश्रुतिः ॥
इति ते कथितं वत्स कवचं परमाऽद्भुतम् ॥
दश लक्ष जपेनैव सिद्धिर्भवति निश्चितम्।
यदि स्यात्सिद्ध कवचो रुद्रतुल्यो भवेद्ध्रुवम्॥
तवस्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित्।
कवचं काण्वशाखोक्तं अतिगोप्यं सुदुर्लभम्॥
अश्वमेध सहस्राणि राजसूय शतानि च ।
सर्वाणिकवचस्यास्य फलं नार्हन्तिषोडशीम्॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद् ध्रुवम्॥
इदं कवचं अज्ञात्वा भवेत् यः शङ्करप्रभुम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः॥
॥ इति श्रीब्रह्मवैवर्ते पुराणे गणपतिखण्डे ब्रह्माण्डविजयी नाम श्रीशङ्करकवचस्तोत्रं सम्पूर्णम् ॥
