पार्थिव पूजनं – आरती
धर्माचरण हो शास्त्रानुसार
आरती


तदनंतर आरती की थाली सजाकर कर्पूर, दीप आदि से आरती करे –
ॐ अग्निर्देवता वातौ देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥
ॐ कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥१॥
वन्दे देवमुमापति सुरगुरु वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खङ्ग परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घंटां डमरुकसहितं सांकुशं वामभागे
नानालंकारयुक्तंस्फटिकमणिनिभं पार्वतीशंनमामि॥
प्रदक्षिणा : ॐ ये तीर्त्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥
पुष्पाञ्जलि मंत्र : ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ एष मंत्र पुष्पाञ्जलिं ॐ साङ्गाय साम्बसदाशिवाय नमः ॥
साष्टाङ्ग प्रणाम : ॐ शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥
स्तुतिंकरोमि कां प्रभो मतिस्तु कुण्ठिता मम ।
भवद्गुणानुवादपारमेति किं चतुर्मुखः ॥
ततः प्रणाममेव ते करोमि दण्डवद्विभो ।
क्षमस्व मेऽपराधरूप दोषजालमीश्वर ॥
तत्पश्चात क्षमापनादि स्तोत्र पाठ करे। विविध स्तोत्र भी अलग से समाहित किया गया है।
