पार्थिव पूजनं – विविध स्तोत्र
धर्माचरण हो शास्त्रानुसार
विविध स्तोत्र
॥ अर्धनारीश्वर स्तोत्र ॥
ब्रह्मोवाच
जय महादेव देव जयेश्वर महेश्वर।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥१॥
जय प्रकृति कल्याणी जय प्रकृतिनायिके।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुंदरी ॥२॥
जयमोघमहामय जयमोघमनोरथ।
जयामोघमहल जयामोघमहाबल ॥३॥
जय विश्वजगन्मात्र्जय विश्वजगन्मये।
जय विश्वजगधात्री जय विश्वजगत्सखी ॥४॥
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय।
जय शाश्वतिकाकार जयशाश्वतिकानुग ॥५॥
जयात्मत्रयनिर्मात्रि जयआत्मत्रयपालिनि।
जयमात्रत्रयसंहर्त्रि जयआत्मत्रयनैयिके ॥६॥
जयावलोकनायत्तजगत्कारनबृहन्।
ज्योपेक्षाकटाक्षोत्थुत्भुग्भुक्तमुक्ति ॥७॥
जय देवादेयविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले।
जय स्थूलात्मशक्तयेशजयय व्याप्तिचारचरे ॥८॥
जय नामैकविन्यस्तविश्वस्तत्त्वसमुच्चय।
जयसुरशिरोनिश्रेष्ठनुगकदम्बक ॥९॥
जयोपाश्रितसंरक्षां संविधानपतियसि।
जयोन्मूलितसंसारविषवृक्षाङकुरोदगमे ॥१०॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भिने।
जय विश्वबहिरभूत पितावैभव ॥११॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत।
जय पंचार्थविज्ञानसुधास्तोत्रस्वरूपिणे ॥१२॥
जयति घोरसंसारमहारोगभिषग्वर।
जयानादिमलज्ञानतमःपातालचन्द्रिके ॥१३॥
जय त्रिपुरकालग्ने जय त्रिपुरभैरवि।
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनी ॥१४॥
जय प्रथमसर्वज्ञ जय सर्वप्रबोधक।
जय प्रचुरदिव्यङ्ग जय प्रार्थितदायिनी ॥१५॥
क्व देवता ते परं धाम क्व चतुष्टं च नो वाचः।
तथापि भगवान भक्त्या प्रलपन्तं क्षमास्व माम् ॥१६॥
विद्याप्यैवन्विधैः सुक्तैर्विश्वकर्मा चतुर्मुखः।
नमश्चर रुद्राय रुद्राण्यै च मुहुर्मुहुः ॥१७॥
इदं स्तोत्रवरं पुण्यं ब्राह्मण समुद्रितम्।
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥१८॥
य इदं कीर्तयेद्भक्त्य यस्य कस्यापि शिक्षाय।
महत्फलमवाप्नोति शिवयोः प्रीतिकरणात् ॥१९॥
सकलभुवनभूतभावनाभ्यां
जननविनाशविकसनविग्रहाभ्यम्।
नरवर्युवतीवपुर्धराभ्यां
सततमहं प्रणतोऽस्मि शकराभ्यम् ॥२०॥
॥ इति श्रीशैवेमहापुराणे वायवीयसंहितायां पूर्वभागे शिवशिवस्तुतिवर्णनं नाम पञ्चदशाध्याये अर्धनारीश्वरस्तोत्रं संपूर्णम् ॥
॥ लिंगोत्पत्तिस्तवः ॥
ब्रह्मविष्णु ऊचतुः
अनादिदेव देवेश विश्वेश्वर महेश्वर।
सर्वज्ञ ज्ञानविज्ञानप्रदामेय नमोऽस्तु ते॥
अनंतकांतिसम्पन्न अनंतासनसंस्थित।
अनंतशक्तिसम्भोग परमेश नमोऽस्तुते ॥
परतपरतरतीत उत्पत्तिस्थितिकरण।
सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तुते ॥
बहुरूप महारूप सर्वरूपोत्तमोत्तम।
पशुपाषाणर्वतीत वृषभारूढ ते नमः ॥
स्वप्रभानिर्मलामय सर्वस्वामी महेश्वर:।
योगिवर्य महायोगिन् योगेश्वर नमोऽस्तु ते ॥
निरंजन निराधार स्वघर निरुपलव।
प्रपन्नशरणेषां योगातीत नमोऽस्तुते ॥
जिह्वाचपलभावेन यदिदं गदितं प्रभो।
तत्क्षणन्तव्यमनौपम्य कस्तेस्तुतिगुणार्णवम् ॥
नमस्ते नामलिङ्गाय शिवलिङ्गाय ते नमः।
नमस्ते गुढलिङ्गाय पर्लिङ्गाय योगिने ॥
नमस्तेज्योतिलिङ्गाय देवलिङ्गायलिङ्गिने।
नमस्तेसूक्ष्मलिङ्गाय बुद्धिलिङ्गाय बुद्धये ॥
नमः पर्वतलिङ्गाय भावलिङ्गाय ते नमः।
जगत्करणलिङ्गाय जगतं पतये नमः ॥
नमोऽस्मत्पतये तुभ्यं धर्मानां पतये नमः।
लिंगोत्पत्तिस्तवं पुण्यं यः शृणोति नरः सदा ॥
नोत्पद्यते हि संसारे स्थानमाप्नोति शाश्वतम्।
तस्मात्सर्वप्रयत्नेन शृणुयादवाचयेत्तथा ॥
पापञ्चुकमुत्सृज्य प्राप्नोति परमं पदम् ॥
॥ इति शिवरहस्यन्तर्गते ब्रह्माविष्णुकृतं लिंगोत्पत्तिस्तवः सम्पूर्णः ॥
॥ शिवरहस्योक्त ब्रह्मा कृत शिवस्तवन ॥
ब्रह्मोवाच
पूज्यः सर्वोत्तमो देवः शिव एव न चापरः ।
पूज्यश्च सर्वथा देवः शिव एव मुमुक्षुभिः ॥
मन्यन्ते शिवमद्वैतं चतुर्थं ब्रह्मवादिनः ।
स एव परमात्माऽतो विजिज्ञास्यो मुमुक्षुभिः ॥
सर्वव्यापी सर्वरूपः परमात्मा सदाशिवः ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
यमाहुरक्षरं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
यमाहुः सर्वगं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
शिवाभिधं परं ब्रह्म सेवनीयं प्रयत्नतः ।
पार्वतीसहितो नित्यं ध्यातव्यः श्रीमहेश्वरः ॥
पूजनीयो लिङ्गरूपी त्र्यम्बकस्त्रिपुरान्तकः ।
जप्तव्यश्च मनुः शैवः पञ्चाक्षरमयो नृभिः ॥
यमाहुः प्रणवाकारं वेदा देवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥
मुक्तिर्हस्तगता नॄणां यस्य देवस्य पूजनात् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माकृतः शिवस्तवः सम्पूर्णः ॥
॥ जय जय शम्भो गिरिजाबन्धो ॥
जय जय शम्भो गिरिजाबन्धो
शिव शिव शङ्कर भूतपते ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१॥
शिव सुरनायक मङ्गलविग्रह
कुरु कुरु मङ्गलमाशु विभो ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥२॥
शरणं यामश्चरणद्वन्द्वं
तव यत् कमलापतिमृग्यं ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥३॥
तव पदकमलादमलादन्य
च्चिन्तितमपि न हि चेत शंभो ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥४॥
नामैवोत्तम तव पदममलं
मङ्गलदायकमङ्गलदम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥५॥
शिव वयमशिवं न भजामस्-
त्वयि सति सशिवे शिवमूर्तौ ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥६॥
भगवन् भवता भवतापहृता
न हृतं दुरितं किं नु कृतम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥७॥
सकृदपि तव हर नामस्मरणं
कृतमघकुलहरमतिशुभदम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥८॥
स्मृतमपि तव हर चरणद्वन्द्वं
हरति विषादं किमु दुष्टम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥९॥
हर यद्यस्मत्कृतमपराधं
विविधं कृपया हरसि तथा ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१०॥
सुतमपराधिनमपि कृतशिक्ष
जनकः पालयतीश यथा ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥११॥
भवता सृष्टं जगदिव सृष्टानस्मा-
नयि भव पालय नित्यम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१२॥
जगतामेको जनकस्त्वमतो
वयमपि जगतो न हि भिन्नाः ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१३॥
न हि जानीमो भवदन्यं
शङ्कर धीरं पातारम् ।
गिरिश महापजलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१४॥
देव गजासुरपरिहृतविभवा-
नस्मान् सभवानव सदय ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१५॥
शरणं भव भव शरणं भव भव
भव शरणं त्वं करुणाब्धे ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१६॥
न सुता वयमपि तव किमु शम्भो
जनको न भवानस्माकम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१७॥
भवता सृष्टाः सकला लोका
वयमपि तद्वद्धर सृष्टाः ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१८॥
भव भवदन्यं न वयं यामः
सकृदपि शरणं मरणे वा ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥१९॥
निरवधिकरुणापारावारस्-
त्वमतो हर हर भवदुःखम् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥२०॥
भव भवदीयानस्माननिशं
कुरु गतदुःखानतिदुःखान् ।
गिरिश महापज्जलधेरस्मा-
नुद्धर धीर कृपाजलधे ॥२१॥
॥ इति श्रीशिवस्तोत्रं सम्पूर्णम् ॥
॥ प्रसूति (दक्षपत्नी) कृत शिव स्तुति ॥
बृहद्धर्मपुराण में दक्षपत्नी प्रसूति द्वारा की गयी शिव स्तुति में श्लोकों की संख्या तो मात्र ३ है किन्तु इसकी महत्ता इससे समझी जा सकती है कि यह शिवकोप को शांत करने वाला है।
प्रसूतिरुवाच
नमामहे तवपदपङ्कजद्वयं
यदद्वयं भयहरमिष्टसाधकम् ।
स्मरन्ति वै सुरनरकिन्नरादयः
समोभवान्निखिलजनेविशेषकृत् ॥१॥
शिवो हरः स्मरहर ईश उत्तमो
महेश्वरो भवभयकृद्भवोऽरिहा ।
त्रिलोचनः शशिरविवह्निलोचनो
महामना मनसि विराज मादृशाम् ॥२॥
शतेन्दवो रविकुलकोटिरेव ते
प्रभाकरप्रभमिति नावगम्यते ।
यदीदृशाः प्रविलसद्दण्डकोटयो
भवत्तनोः कणविवरेषु लक्षिताः ॥३॥
॥ इति बृहद्धर्मपुराणान्तर्गता दक्षपत्नीकृता शिवस्तुतिः सम्पूर्णा ॥
॥ परशुराम कृत शिव स्तुति ॥
परशुराम उवाच
नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥१॥
नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥२॥
व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥३॥
शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥४॥
यन्मयाऽपकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥५॥
अनन्यवेद्यरुपस्य सद्भावमिह कः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्नोति वेदितुम् ॥६॥
तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्तिमेगतिस्तुभ्यं नमोभूयोनमोनमः॥७॥
॥ इति ब्रह्माण्डपुराणान्तर्गता परशुरामप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥
॥ नटराज स्तुति ॥
शत सृष्टि तांडव रचयिता
नटराज राज नमो नमः ।
हे आद्य गुरु शंकर पिता
नटराज राज नमो नमः ॥
गंभीर नाद मृदङ्गना
धबके उरे ब्रह्माडना ।
नित होत नाद प्रचण्डना
नटराज राज नमो नमः॥
शिर ज्ञान गंगा चन्द्रमा
चिद्ब्रह्म ज्योति ललाट मां ।
विषनाग माला कंठ मां
नटराज राज नमो नमः ॥
तवशक्ति वामाङ्गे स्थिता
हे चंद्रिका अपराजिता ।
चहुं वेद गाये संहिता
नटराज राज नमोः ॥
॥ पंचाक्षर स्तुति ॥
नागेंद्रहाराय त्रिलोचनाय
भस्मांगरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय
तस्मे नकाराय नमः शिवाय ॥१॥
मंदाकिनी सलिल चंदन चर्चिताय
नंदीश्वर प्रमथनाथ महेश्वराय।
मंदारपुष्प बहुपुष्प सुपूजिताय
तस्मै मकाराय नमः शिवाय ॥२॥
शिवाय गौरी वदनाब्जवृंद
सूर्याय दक्षाध्वरनाशकाय।
श्री नीलकंठाय वृषभध्वजाय
तस्मै शिकाराय नमः शिवाय ॥३॥
वशिष्ठ कुभोद्भव गौतमाय
मुनींद्र देवार्चित शेखराय।
चंद्रार्क वैश्वानर लोचनाय
तस्मै व काराय नमः शिवाय ॥४॥
यक्ष स्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय ॥५॥
पंचाक्षरमिदं पुण्यं यः पठेत् शिव सन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥ अर्द्धनारीनटेश्वर स्तोत्र ॥
चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥१
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥२॥
झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ॥३॥
विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥४॥
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥५॥
अम्भोधरश्यामलकुन्तलायै
तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥६॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥७॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥८॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या
स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥९॥
॥ इति श्रीमच्छंकरभगवतःकृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥
